|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.31. अध्यायः 031
Mahabharata - Adi Parva - Chapter Topics
वालखिल्यतपसा गरुडोत्पत्तिकथनपूर्वकं तस्य पक्षीन्द्रत्वेऽभिषेचनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
शौनक उवाच। 1-31-0x(135)(1539)
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज।
तपसा वालखिल्यानां संभूतो गरुडः कथम्॥ 1-31-1(1540)
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः।
अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम्॥ 1-31-2(1541)
कथं च कामचारी स कामवीर्यश्च खेचरः।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते॥ 1-31-3(1542)
सौतिरुवाच। 1-31-4x(136)
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि।
शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज॥ 1-31-4(1543)
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल॥ 1-31-5(1544)
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः॥ 1-31-6(1545)
शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम्।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः॥ 1-31-7(1546)
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः।
पलाशवर्तिकामेकां वहतः संहतान्पथि॥ 1-31-8(1547)
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्।
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके॥ 1-31-9(1548)
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः।
अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च॥ 1-31-10(1549)
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः।
आरेभिरे महत्कर्म तदा शक्रभयंकरम्॥ 1-31-11(1550)
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु॥ 1-31-12(1551)
कामवीर्यः कामगमो देवराजभयप्रदः।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः॥ 1-31-13(1552)
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः।
तपसो नः फलेनाद्य दारुणः संभवित्विति॥ 1-31-14(1553)
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः।
जगाम शरणं तत्र कश्यपं संशितव्रतम्॥ 1-31-15(1554)
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत॥ 1-31-16(1555)
`कश्यप उवाच। 1-31-17x(137)
केन कामेन चारब्धं भवद्भिर्होमकर्म च।
याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे॥ 1-31-17(1556)
वालखिल्या ऊचुः। 1-31-18x(138)
अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना।
ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता॥ 1-31-18(1557)
तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप॥ 1-31-19(1558)
सौतिरुवाच।' 1-31-20x(139)
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः॥ 1-31-20(1559)
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः॥ 1-31-21(1560)
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः।
भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः॥ 1-31-22(1561)
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्।
प्रसादः क्रियतामस्य देवराजस्य याचतः॥ 1-31-23(1562)
सौतिरुवाच। 1-31-24x(140)
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः।
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्॥ 1-31-24(1563)
वालखिल्या ऊचुः। 1-31-25x(141)
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः॥ 1-31-25(1564)
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि॥ 1-31-26(1565)
सौतिरुवाच। 1-31-27x(142)
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा।
विनता नाम कल्याणी पुत्रकामा यशस्विनी॥ 1-31-27(1566)
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः॥ 1-31-28(1567)
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ॥ 1-31-29(1568)
तपसा वालखिल्यानां मम संकल्पतस्तथा।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ॥ 1-31-30(1569)
उवाच चैनां भगवान्कश्यपः पुनरेव ह।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः॥ 1-31-31(1570)
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति।
लोकसंभावितो वीरः कामरूपो विहङ्गमः॥ 1-31-32(1571)
सौतिरुवाच। 1-31-33x(143)
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः॥ 1-31-33(1572)
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर।
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि॥ 1-31-34(1573)
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः॥ 1-31-35(1574)
सौतिरुवाच। 1-31-36x(144)
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्।
विनता चापि सिद्धार्था बभूव मुदिता तथा॥ 1-31-36(1575)
जनयामास पुत्रौ द्वावरुणं गरुडं तथा।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः॥ 1-31-37(1576)
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन॥ ॥ 1-31-38(1577)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-31-8 अङ्गुष्ठोदरप्रमाणं वर्ष्म शरीरं येषां तान्। वर्तिकां यष्टिम्॥ 1-31-9 स्वेष्वङ्गेषु प्रलीनानिव अतिकृशानित्यर्थः। क्लिश्यमानान् गोष्पदमात्रेति जले मज्जनेनेत्यर्थः॥ 1-31-11 जातमन्यवः दीनाः। मन्युर्दैन्ये क्रतौ क्रुधीति कोशः॥ 1-31-14 दारुणः इन्द्रं प्रत्येव॥ 1-31-16 कर्मसिद्धिमपृच्छत सिद्ध वः कर्मेत्यपृच्छत्॥ 1-31-20 एवमस्तु सिद्धमस्तु॥ 1-31-28 पुंसवने ऋतुकाले॥ 1-31-32 कारयिष्यति स्वार्थे णिच्॥ एकत्रिंशोऽध्यायः॥ 31 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|